मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४६, ऋक् १०

संहिता

ग॒व्यो षु णो॒ यथा॑ पु॒राश्व॒योत र॑थ॒या ।
व॒रि॒व॒स्य म॑हामह ॥

पदपाठः

ग॒व्यो इति॑॑ । सु । नः॒ । यथा॑ । पु॒रा । अ॒श्व॒ऽया । उ॒त । र॒थ॒ऽया ।
व॒रि॒व॒स्य । म॒हा॒ऽम॒ह॒ ॥

सायणभाष्यम्

हे महामह महाधनेन्द्र गव्या । गव्या उ इति निपाताऽनिपातद्वयसमुदायस्य आदिवद्भावेन निपातवद्भावात् प्रकृतिभावः । अस्माकं गवामिच्छया अस्माकं गादातुं यथा पुरापूर्वं यथास्माकं गवादिदानाय वरिवस्यसि तद्वदद्यापि सु सुष्ठु वरिवस्य परिचर आगच्छेत्यर्थः । न केवलं गवेच्छया किंतु अश्वया अश्वप्रदानेच्छया उतापिच रथया रथेच्छयाच वरिवस्येति ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः