मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४६, ऋक् ११

संहिता

न॒हि ते॑ शूर॒ राध॒सोऽन्तं॑ वि॒न्दामि॑ स॒त्रा ।
द॒श॒स्या नो॑ मघव॒न्नू चि॑दद्रिवो॒ धियो॒ वाजे॑भिराविथ ॥

पदपाठः

न॒हि । ते॒ । शू॒र॒ । राध॑सः । अन्त॑म् । वि॒न्दामि॑ । स॒त्रा ।
द॒श॒स्य । नः॒ । म॒घ॒ऽव॒न् । नु । चि॒त् । अ॒द्रि॒ऽवः॒ । धियः॑ । वाजे॑भिः । आ॒वि॒थ॒ ॥

सायणभाष्यम्

हे शूर विक्रन्तेन्द्र ते तव राधसो धनस्यान्तं इयत्तां सत्रा सत्यं नहि विन्दामि न लभे । यस्मादेवं तस्मात् हे मघवन् धनवन् हे अद्रिवो बज्रवन्निन्द्र नोस्माकं नूचित् क्षिप्रमेव दशस्य देहि तद्धनम् । किञ्च वाजेभिर्वाजैरन्नैर्धियोस्मदीयानि कर्माण्याविथ रक्ष ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः