मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४६, ऋक् १२

संहिता

य ऋ॒ष्वः श्रा॑व॒यत्स॑खा॒ विश्वेत्स वे॑द॒ जनि॑मा पुरुष्टु॒तः ।
तं विश्वे॒ मानु॑षा यु॒गेन्द्रं॑ हवन्ते तवि॒षं य॒तस्रु॑चः ॥

पदपाठः

यः । ऋ॒ष्वः । श्र॒व॒यत्ऽस॑खा । विश्वा॑ । इत् । सः । वे॒द॒ । जनि॑म । पु॒रु॒ऽस्तु॒तः ।
तम् । विश्वे॑ । मानु॑षा । यु॒गा । इन्द्र॑म् । ह॒व॒न्ते॒ । त॒वि॒षम् । य॒तऽस्रु॑चः ॥

सायणभाष्यम्

यइन्द्रः ऋष्वोदर्शनीयः श्रावयत्सखा श्रावयन्तः सखायऋत्विजो यस्य सतादृशः श्रावयत्सखा पुरुष्टुतो बहुभिर्यजमानैःस्तुतो यइन्द्रः सविश्वेत् सर्वा- ण्यपि जनिम जन्मानि प्राणिनां वेद जानाति तं तविषं बलवन्तमिन्द्रं विश्वे सर्वेपि अध्वर्य्वादयो यतश्रुचः स्वीकृतहविष्काःसन्तो मानुषा मनुष्यसं- बन्धिनो युगा युगानि कालान् सर्वेषुकालेषु हवन्ते आह्वयन्ति स्तुवन्ति ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः