मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४६, ऋक् १३

संहिता

स नो॒ वाजे॑ष्ववि॒ता पु॑रू॒वसु॑ः पुरःस्था॒ता म॒घवा॑ वृत्र॒हा भु॑वत् ॥

पदपाठः

सः । नः॒ । वाजे॑षु । अ॒वि॒ता । पु॒रु॒ऽवसुः॑ । पु॒रः॒ऽस्था॒ता । म॒घऽवा॑ । वृ॒त्र॒ऽहा । भु॒व॒त् ॥

सायणभाष्यम्

एषा द्विपदा जगती । सपुरूवसुर्बहुधनो मघवा धनवान् वृत्रहा शत्रूणां हन्तेन्द्रो नोस्माकं वाजेषु सङ्गामेषु अविता रक्षिता पुरःस्थाता तदर्थं पुर- तोवर्तमानो भुवद्भवतु ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः