मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४६, ऋक् १५

संहिता

द॒दी रेक्ण॑स्त॒न्वे॑ द॒दिर्वसु॑ द॒दिर्वाजे॑षु पुरुहूत वा॒जिन॑म् ।
नू॒नमथ॑ ॥

पदपाठः

द॒दिः । रेक्णः॑ । त॒न्वे॑ । द॒दिः । वसु॑ । द॒दिः । वाजे॑षु । पु॒रु॒ऽहू॒त॒ । वा॒जिन॑म् ।
नू॒नम् । अथ॑ ॥

सायणभाष्यम्

हे पुरुहूत बहुभिराहूतेन्द्र त्वं तन्वे मत्द्यं शरीराय रेक्णोधनं ददिर्दाताभव । कदेत्युच्यते नूनं क्षिप्रमथेदानीमेव एवं प्रतिवाक्यं योज्यम् । तथा वसु धनं पुत्रादिभ्यो ददिर्दाताभव तथा वाजेषु संग्रामेषु वाजिनमन्नवन्तं रयिं ददिर्दाताभवेति । अत्रसर्वेष्वपि वाक्येषु ददिरित्यस्य लिङ्भा- वान्नलोकाव्ययेति षष्ठीप्रतिषेधः ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः