मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४६, ऋक् १६

संहिता

विश्वे॑षामिर॒ज्यन्तं॒ वसू॑नां सास॒ह्वांसं॑ चिद॒स्य वर्प॑सः ।
कृ॒प॒य॒तो नू॒नमत्यथ॑ ॥

पदपाठः

विश्वे॑षाम् । इ॒र॒ज्यन्त॑म् । वसू॑नाम् । स॒स॒ह्वांस॑म् । चि॒त् । अ॒स्य । वर्प॑सः ।
कृ॒प॒ऽय॒तः । नू॒नम् । अति॑ । अथ॑ ॥

सायणभाष्यम्

हे इन्द्र त्वां विश्वेषां सर्वेषां वसूनां धनानामिरज्यन्तं ईशानं अस्य वर्पसः वारकस्य कृपयतो युद्धं कल्पयतः शत्रोः सासह्वांसं अभिभवितारं स्तुव- न्तइतिशेषः । सत्वं नूनं क्षिप्रं अथातिचित् इदानीमपि धनं प्रयच्छेत्यर्थः ॥ १६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः