मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४६, ऋक् १७

संहिता

म॒हः सु वो॒ अर॑मिषे॒ स्तवा॑महे मी॒ळ्हुषे॑ अरंग॒माय॒ जग्म॑ये ।
य॒ज्ञेभि॑र्गी॒र्भिर्वि॒श्वम॑नुषां म॒रुता॑मियक्षसि॒ गाये॑ त्वा॒ नम॑सा गि॒रा ॥

पदपाठः

म॒हः । सु । वः॒ । अर॑म् । इ॒षे॒ । स्तवा॑महे । मी॒ळ्हुषे॑ । अ॒र॒म्ऽग॒माय॑ । जग्म॑ये ।
य॒ज्ञेभिः॑ । गीः॒ऽभिः । वि॒श्वऽम॑नुषाम् । म॒रुता॑म् । इ॒य॒क्ष॒सि॒ । गाये॑ । त्वा॒ । नम॑सा । गि॒रा ॥

सायणभाष्यम्

हे इन्द्र महो महतो वः तवेत्यर्थः व्यत्ययेन बहुवचनं अरंगमनमस्मद्विषयं इषे इच्छामि अर्तेररमितिरूपम् । तदर्थं मीह्ळुषे सेक्रे अरंगमाय अरंगम- नाय संपूर्णगमनाय जग्मये गमनशीलाय यज्ञं प्रति एवंभूताय देवाय सुष्ठु स्तवामहे त्वां स्तुमइत्यर्थः । केन साधनेनेति तदुच्यतेयज्ञेभिर्यजमानसा- धनैर्हविर्भिर्यज्ञैरेववा गीर्भिः स्तुतिभिःहे देव विश्वमनुषां विशेषां मनुष्याणां यष्टृणां इयक्षसि एतैरिज्यसे मरुतां संबन्धई त्वम् । किञ्च त्वा त्वां नमसा नमस्कारेण गिरा स्तुत्याच गाये स्तुवे ॥ १७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः