मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४६, ऋक् १८

संहिता

ये पा॒तय॑न्ते॒ अज्म॑भिर्गिरी॒णां स्नुभि॑रेषाम् ।
य॒ज्ञं म॑हि॒ष्वणी॑नां सु॒म्नं तु॑वि॒ष्वणी॑नां॒ प्राध्व॒रे ॥

पदपाठः

ये । पा॒तय॑न्ते । अज्म॑ऽभिः । गि॒री॒णाम् । स्नुऽभिः॑ । ए॒षा॒म् ।
य॒ज्ञम् । म॒हि॒ऽस्वनी॑नाम् । सु॒म्नम् । तु॒वि॒ऽस्वनी॑नाम् । प्र । अ॒ध्व॒रे ॥

सायणभाष्यम्

ये मरुतो गिरीणां मेघानां स्नुभिः प्रत्नवद्भिः अज्मभिः बलैर्बलकरैरुदकैः सह पातयन्ते पतन्ति गच्छन्ति । एषां मरुतां महिष्वणीनां प्रभूतध्वनीनां यज्ञं कुर्मइतिशेषः । कृत्वाच तुविष्वणीनां बहुध्वनीनां सुम्नं सुखं तैःकृतं अध्वरे यज्ञे प्र प्राप्नुयाम । अथवा चतुर्थ्यर्थेषष्ठी प्रभूतस्वने भ्यः सुम्नं उक्त- लक्षणं हविः प्र प्राप्नुयामाध्वरे यज्ञे ॥ १८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः