प्र॒भ॒ङ्गं दु॑र्मती॒नामिन्द्र॑ शवि॒ष्ठा भ॑र ।
र॒यिम॒स्मभ्यं॒ युज्यं॑ चोदयन्मते॒ ज्येष्ठं॑ चोदयन्मते ॥
प्र॒ऽभ॒ङ्गम् । दुः॒ऽम॒ती॒नाम् । इन्द्र॑ । श॒वि॒ष्ठ॒ । आ । भ॒र॒ ।
र॒यिम् । अ॒स्मभ्य॑म् । युज्य॑म् । चो॒द॒य॒त्ऽम॒ते॒ । ज्येष्ठ॑म् । चो॒द॒य॒त्ऽम॒ते॒ ॥
दुर्मतीनां दुष्टमनस्कानां वृत्रादीनां प्रभङ्ग प्रकर्षेण भञ्चकं त्वां याचामहइतिशेषः । हे इन्द्र शविष्ठातिशयेनबलवन् स्तुतस्त्वमस्मभ्यं रयिं धनं युज्यं योग्यमस्माकमुचितं धनमाभराहर । हे चोदयन्मते चोदयन्ती धनं प्रेरयन्तीमतिर्यस्य सतथोक्तः हे तादृशदेव किञ्च हे चोदयन्मते उक्तार्थ ज्येष्ठं धनमाभर ॥ १९ ॥