मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४६, ऋक् २०

संहिता

सनि॑त॒ः सुस॑नित॒रुग्र॒ चित्र॒ चेति॑ष्ठ॒ सूनृ॑त ।
प्रा॒सहा॑ सम्रा॒ट् सहु॑रिं॒ सह॑न्तं भु॒ज्युं वाजे॑षु॒ पूर्व्य॑म् ॥

पदपाठः

सनि॑त॒रिति॑ । सुऽस॑नितः । उग्र॑ । चित्र॑ । चेति॑ष्ठ । सूनृ॑त ।
प्र॒ऽसहा॑ । सम्ऽरा॒ट् । सहु॑रिम् । सह॑न्तम् । भु॒ज्युम् । वाजे॑षु । पूर्व्य॑म् ॥

सायणभाष्यम्

हे सनितः संभक्तः सुसनितः दातर्वा उग्र उद्गूर्णबल चित्र चायनीय चेतिष्ठात्यन्तं चेतयितः सूनृत सुसत्य प्रासहा प्रसह्य हे सम्राट् सर्वस्य स्वामिन् सम्यग्राजमान वा त्वं सहुरिं सहनशीलं सहन्तं भुज्युं भोजयितारं पूर्व्यं प्रवृद्धं मुख्यमित्यर्थः । ईदृशं धनं वाजेषु संग्रामेषु आभरेतिशेषः ॥ २० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः