मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४६, ऋक् २१

संहिता

आ स ए॑तु॒ य ईव॒दाँ अदे॑वः पू॒र्तमा॑द॒दे ।
यथा॑ चि॒द्वशो॑ अ॒श्व्यः पृ॑थु॒श्रव॑सि कानी॒ते॒३॒॑ऽस्या व्युष्या॑द॒दे ॥

पदपाठः

आ । सः । ए॒तु॒ । यः । ईव॑त् । आ । अदे॑वः । पू॒र्तम् । आ॒ऽद॒दे ।
यथा॑ । चि॒त् । वशः॑ । अ॒श्व्यः । पृ॒थु॒ऽश्रव॑सि । कानी॒ते । अ॒स्याः । वि॒ऽउषि॑ । आ॒ऽद॒दे ॥

सायणभाष्यम्

अत्रशौनकः-वशायाश्व्याययत्प्रादात्कानीतस्तुपृथुश्रवाः । तदत्रस्तूयतेदानमासएत्वेवमादिभिः ॥ १ ॥ ऎतु आगच्छतु सः यः अदेवः देवादन्यो मनुष्यो वशईवत् गमनवत् गवादिलक्षणं पूर्तं पूर्णं आददे आदत्ते स्वीकृतवानित्यर्थः । देवश्चेन्माययाप्यागन्तुमर्हति अतः प्रकाशेनैवागच्छत्वित्यर्थः । कथम- स्याधनावाप्तिप्रसङ्गश्चेति । तदुच्यते-यथाचित् चिदितिपूरणः येन कारणेन यस्माद्वा वश एतत्संज्ञकः अश्व्यः अश्वपुत्रः पृथुश्रदसि एतन्नामकेराज्ञि कानीते कानीतपुत्रे कन्यायाः पुत्रे अस्या उषसो व्युषि व्युष्टौ आददे आदत्ते तेन प्रकारेणन तस्माद्वा कारणादायात्विति एवमश्वो बन्धुवर्गोवाब्रूते ॥ २१ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः