मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४६, ऋक् २२

संहिता

ष॒ष्टिं स॒हस्राश्व्य॑स्या॒युता॑सन॒मुष्ट्रा॑नां विंश॒तिं श॒ता ।
दश॒ श्यावी॑नां श॒ता दश॒ त्र्य॑रुषीणां॒ दश॒ गवां॑ स॒हस्रा॑ ॥

पदपाठः

ष॒ष्टिम् । स॒हस्रा॑ । अश्व्य॑स्य । अ॒युता॑ । अ॒स॒न॒म् । उष्ट्रा॑नाम् । विं॒श॒तिम् । श॒ता ।
दश॑ । श्यावी॑नाम् । श॒ता । दश॑ । त्रिऽअ॑रुषीणाम् । दश॑ । गवा॑म् । स॒हस्रा॑ ॥

सायणभाष्यम्

सवश आगत्यब्रूते अश्व्यस्याश्वसम्बन्धिनः षष्टिं सहस्रा सहस्राणि अयुता अयुतानि वासनमभजं उष्ट्राणां विंशातिं शता शतानि चासनं श्यावीनां श्याववर्णानां वडवानां दशशता शतानि चासनम् त्र्यरुषीणां त्रीण्यारोचमानानि शुभ्राणि ककुप् पृष्ठपार्श्वादिस्थानानि यासां तादृशीनां गवां दशसहस्रा दशसहस्राण्यभजम् ॥ २२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः