मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४६, ऋक् २३

संहिता

दश॑ श्या॒वा ऋ॒धद्र॑यो वी॒तवा॑रास आ॒शवः॑ ।
म॒थ्रा ने॒मिं नि वा॑वृतुः ॥

पदपाठः

दश॑ । श्या॒वाः । ऋ॒धत्ऽर॑यः । वी॒तऽवा॑रासः । आ॒शवः॑ ।
म॒थ्राः । ने॒मिम् । नि । व॒वृ॒तुः॒ ॥

सायणभाष्यम्

दश दशसंख्याकाः श्यावाः श्याववर्णाः आशवोश्वाः नेमिं रथनेमिं निवावृतुः निवर्तयन्ति रथंवहन्तीत्यर्थः । कीदृशास्ते ऋधद्रयः प्रवृद्धवेगाः वीत- वारासः क्रान्तबलाः प्राप्तबलावा आशवः मथ्राः मथनशीलाः ॥ २३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः