मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४६, ऋक् २४

संहिता

दाना॑सः पृथु॒श्रव॑सः कानी॒तस्य॑ सु॒राध॑सः ।
रथं॑ हिर॒ण्ययं॒ दद॒न्मंहि॑ष्ठः सू॒रिर॑भू॒द्वर्षि॑ष्ठमकृत॒ श्रवः॑ ॥

पदपाठः

दाना॑सः । पृ॒थु॒ऽश्रव॑सः । का॒नी॒तस्य॑ । सु॒ऽराध॑सः ।
रथ॑म् । हि॒र॒ण्यय॑म् । दद॑त् । मंहि॑ष्ठः । सू॒रिः । अ॒भू॒त् । वर्षि॑ष्ठम् । अ॒कृ॒त॒ । श्रवः॑ ॥

सायणभाष्यम्

पूर्वमन्त्रैः प्रतिपादितानि धनानि बंधूनां पितुर्वा पुरस्तान्निर्दिशन्नाशास्ते । पृथुश्रवसः कानीतस्य सुराधसः शोभनधनस्य यतस्तस्य धनं दानाय कल्पितं अतः ससुराधाः तस्य दानासोदानाः दत्तानि धनानीमानि सच पृथुश्रवाः पूर्वमुक्तानि हिरण्ययं हिरण्मयं रथञ्च ददत् प्रयच्छन् मंहिष्ठोति- शयेन दाता सूरिः सर्वस्य प्रेरकः प्राज्ञोवा भूत् भवति भवतु वा । वर्षिष्ठं अतिशयेन प्रवृद्धां श्रवः कीर्तिमकृत करोति करोतु वा ॥ २४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः