मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४६, ऋक् ३०

संहिता

गावो॒ न यू॒थमुप॑ यन्ति॒ वध्र॑य॒ उप॒ मा य॑न्ति॒ वध्र॑यः ॥

पदपाठः

गावः॑ । न । यू॒थम् । उप॑ । य॒न्ति॒ । वध्र॑यः । उप॑ । मा॒ । आ । य॒न्ति॒ । वध्र॑यः ॥

सायणभाष्यम्

गावोन गावइव ता यथा संगवेयूथमुपयन्ति उपगच्छन्तितद्वद्वध्रयः छिन्नमुष्काः वृषभाः पृथुश्रवसा दत्ताः मा मामुपयन्ति समीपं प्राप्नुवन्ति । मा मां वध्रय उपायन्तीति पुनरुक्तिरादरार्था ॥ ३० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः