मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४६, ऋक् ३१

संहिता

अध॒ यच्चार॑थे ग॒णे श॒तमुष्ट्राँ॒ अचि॑क्रदत् ।
अध॒ श्वित्ने॑षु विंश॒तिं श॒ता ॥

पदपाठः

अध॑ । यत् । चार॑थे । ग॒णे । श॒तम् । उष्ट्रा॑न् । अचि॑क्रदत् ।
अध॑ । श्वित्ने॑षु । विं॒श॒तिम् । श॒ता ॥

सायणभाष्यम्

अधाथ यद्यदा चारथे चरथं चरणं गमनं तत्संबन्धिनि चार्यमाणे वनाय चार्यमाणइत्यर्थः तादृशे गणे उष्ट्रसंघे उष्ट्रन् शतं उष्ट्राणां शतं अचिक्रदत् अस्मभ्यं प्रदानाय जुहाव । अधापिचास्मदर्थमेव श्वित्नेषु श्वेतवर्णेषु गोयूथेषु विंशतिं शता च शतानि च अथवा शतानां विंशतिं अचिक्रदत् ॥ ३१ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः