मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४७, ऋक् २

संहिता

वि॒दा दे॑वा अ॒घाना॒मादि॑त्यासो अ॒पाकृ॑तिम् ।
प॒क्षा वयो॒ यथो॒परि॒ व्य१॒॑स्मे शर्म॑ यच्छताने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥

पदपाठः

वि॒द । दे॒वाः॒ । अ॒घाना॑म् । आदि॑त्यासः । अ॒प॒ऽआकृ॑तिम् ।
प॒क्षा । वयः॑ । यथा॑ । उ॒परि॑ । वि । अ॒स्मे इति॑ । शर्म॑ । य॒च्छ॒त॒ । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥

सायणभाष्यम्

हे देवा आदित्यास आदित्याः यूयं अघानां दुःखानामपाकृतिमपाकरणं परिहारप्रकारं विद जानीथ । यस्मादेवं तस्माद्वयः पक्षिणः यथा पक्षा स्वप- क्षौ उपरि स्वशिशुकानामुपरि कुर्वन्ति सुखाय तद्वदस्मे अधि अस्मासु शर्म सुखं यच्छत कुरुत । अधीति सप्तम्यर्थानुवादी । अस्मे अस्माकमुपरीति- वा ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः