मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४७, ऋक् ३

संहिता

व्य१॒॑स्मे अधि॒ शर्म॒ तत्प॒क्षा वयो॒ न य॑न्तन ।
विश्वा॑नि विश्ववेदसो वरू॒थ्या॑ मनामहेऽने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥

पदपाठः

वि । अ॒स्मे इति॑ । अधि॑ । शर्म॑ । तत् । प॒क्षा । वयः॑ । न । य॒न्त॒न॒ ।
विश्वा॑नि । वि॒श्व॒ऽवे॒द॒सः॒ । व॒रू॒थ्या॑ । म॒ना॒म॒हे॒ । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥

सायणभाष्यम्

हे आदित्या यूयं अस्मे अधि अस्मासु तत् युष्मास्वेवासाधारणं यच्छर्मास्ति तदित्यर्थः । तत् वयोन पक्षा पक्षिणः शिशुकानां पक्षोपरि यथा तथा वियन्तन विशेषेण प्रापयत हे विश्ववेदसः सर्वधना युष्मान्विश्वानि सर्वाणि वरूथ्या वरूथं गृहं तदुचितानि धनानि मनामहे याचामहे ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः