मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४७, ऋक् ५

संहिता

परि॑ णो वृणजन्न॒घा दु॒र्गाणि॑ र॒थ्यो॑ यथा ।
स्यामेदिन्द्र॑स्य॒ शर्म॑ण्यादि॒त्याना॑मु॒ताव॑स्यने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥

पदपाठः

परि॑ । नः॒ । वृ॒ण॒ज॒न् । अ॒घा । दुः॒ऽगानि॑ । र॒थ्यः॑ । य॒था॒ ।
स्याम॑ । इत् । इन्द्र॑स्य । शर्म॑णि । आ॒दि॒त्याना॑म् । उ॒त । अव॑सि । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥

सायणभाष्यम्

परिवृणजन् परिवर्जयन्तु नोस्माकं अघा अघानि पापानि । तत्र दृष्टान्तः-दुर्गाणि दुर्गमनान् प्रदेशान् अवटधिष्ण्यादिकान् यथा रथ्यः रथस्य वोढारोश्वाः परिवर्जयन्ति तद्वत् इन्द्रस्य शर्मणि स्याम भवेम वयं उतापिच आदित्यानामवसि रक्षणेच स्याम ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः