मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४७, ऋक् ६

संहिता

प॒रि॒ह्वृ॒तेद॒ना जनो॑ यु॒ष्माद॑त्तस्य वायति ।
देवा॒ अद॑भ्रमाश वो॒ यमा॑दित्या॒ अहे॑तनाने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥

पदपाठः

प॒रि॒ऽह्वृ॒ता । इत् । अ॒ना । जनः॑ । यु॒ष्माऽद॑त्तस्य । वा॒य॒ति॒ ।
देवाः॑ । अद॑भ्रम् । आ॒श॒ । वः॒ । यम् । आ॒दि॒त्याः॒ । अहे॑तन । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥

सायणभाष्यम्

परिह्वृतेत् परिपीडितेनैव तपोनियमादिना अना शकटेनयुक्तो जनो युष्मादत्तस्य युष्माभिर्दत्तंधनं कर्मणिषष्ठी वायति गच्छति । हे देवाः हे आदित्याः हे आशवः शीघ्रगमनाययं यं यजमानं अहेतन प्राप्नुथः सजनो दभ्रमनल्पं धनं वायति प्राप्नोतीति संबन्धः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः