मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४७, ऋक् ७

संहिता

न तं ति॒ग्मं च॒न त्यजो॒ न द्रा॑सद॒भि तं गु॒रु ।
यस्मा॑ उ॒ शर्म॑ स॒प्रथ॒ आदि॑त्यासो॒ अरा॑ध्वमने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥

पदपाठः

न । तम् । ति॒ग्मम् । च॒न । त्यजः॑ । न । द्रा॒स॒त् । अ॒भि । तम् । गु॒रु ।
यस्मै॑ । ऊं॒ इति॑ । शर्म॑ । स॒ऽप्रथः॑ । आदि॑त्यासः । अरा॑ध्वम् । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥

सायणभाष्यम्

तं मनुष्यं तिग्मं चन तीक्ष्णमेव सन्तं त्यजः क्रोधनामैतत् अत्र क्रोधात्प्रयुज्यमानमायुधमुच्यते न द्रासत् द्रा कुत्सायां गतौ कुत्सितं नागच्छति नहिनस्तीत्यर्थः । तथा तं जनं गुरुप्रवृद्धं अपरिहारार्हं दुःखं न द्रासत् न गच्छति । हे आदित्यासः आदित्याः सप्रथः समानप्रथनाः सर्वतः पृथु- भूवावा यूयं यस्माउ यस्मै यजमानाय उशब्दः पूरणः शर्म सुखं अराध्वं अदत्त तं न द्रासदिति ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः