मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४७, ऋक् १०

संहिता

यद्दे॑वा॒ः शर्म॑ शर॒णं यद्भ॒द्रं यद॑नातु॒रम् ।
त्रि॒धातु॒ यद्व॑रू॒थ्यं१॒॑ तद॒स्मासु॒ वि य॑न्तनाने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥

पदपाठः

यत् । दे॒वाः॒ । शर्म॑ । श॒र॒णम् । यत् । भ॒द्रम् । यत् । अ॒ना॒तु॒रम् ।
त्रि॒ऽधातु॑ । यत् । व॒रू॒थ्य॑म् । तत् । अ॒स्मासु॑ । वि । य॒न्त॒न॒ । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥

सायणभाष्यम्

हे देवा आदित्याः यच्छर्म सुखं शरणं शरणीयं यद्भद्रं सर्वैर्भजनीयं यदनातुरं रोगरहितं यन्त्रिधातु त्रिगुणं यद्वरूथ्यं वरुथं गृहं तदर्हं यदुक्तगुणकं शर्मास्मासु वियन्तन वियच्छत ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः