मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४७, ऋक् १२

संहिता

नेह भ॒द्रं र॑क्ष॒स्विने॒ नाव॒यै नोप॒या उ॒त ।
गवे॑ च भ॒द्रं धे॒नवे॑ वी॒राय॑ च श्रवस्य॒ते॑ऽने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥

पदपाठः

न । इ॒ह । भ॒द्रम् । र॒क्ष॒स्विने॑ । न । अ॒व॒ऽयै । न । उ॒प॒ऽयै । उ॒त ।
गवे॑ । च॒ । भ॒द्रम् । धे॒नवे॑ । वी॒राय॑ । च॒ । श्र॒व॒स्य॒ते । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥

सायणभाष्यम्

हे आदित्याः इह भूमौ भद्रं कल्याणं सुखं रक्षस्विने रक्षोबलं बलवतेस्मदृवेष्ट्रे नभवत्वितिशेषः । अवयै अस्मान् हिंसितुमवगच्छते नभवतु भद्रं तथोपयै उपगच्छते नभवतु । तर्हि कस्य भवत्विति उच्यते गवेच भद्रं युष्मदीयं भवतु चशब्दो वक्ष्यमाणधेन्वाद्यपेक्षः । किञ्च धेनवे नवप्रसूति- कायै भद्रं भवतु । वीरायास्मत्पुत्रादिकाय भद्रं भवतु । कीदृशाय वीराय श्रवस्यतेन्नमिच्छते अथवा उत्तरार्धेपि नेत्यनुवर्तते अस्मद्विरोधिनो गवादिकाय भद्रं न भत्वितितस्यार्थः ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः