मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४७, ऋक् १३

संहिता

यदा॒विर्यद॑पी॒च्यं१॒॑ देवा॑सो॒ अस्ति॑ दुष्कृ॒तम् ।
त्रि॒ते तद्विश्व॑मा॒प्त्य आ॒रे अ॒स्मद्द॑धातनाने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥

पदपाठः

यत् । आ॒विः । यत् । अ॒पी॒च्य॑म् । देवा॑सः । अस्ति॑ । दुः॒ऽकृ॒तम् ।
त्रि॒ते । तत् । विश्व॑म् । आ॒प्त्ये । आ॒रे । अ॒स्मत् । द॒धा॒त॒न॒ । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥

सायणभाष्यम्

हे देवासो देवाः आदित्याः यदाविः यत्पापमाविर्भूतमस्ति दुष्कतं यच्चापीच्यं अन्तर्हितमस्ति अपीच्यमित्यंतर्हितनाम तत् विश्वं तदुभयं आप्त्ये त्रिते मयि माभूत् किंतु अस्मदारे दूरे दधातन स्थापयत ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः