मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४७, ऋक् १४

संहिता

यच्च॒ गोषु॑ दु॒ष्ष्वप्न्यं॒ यच्चा॒स्मे दु॑हितर्दिवः ।
त्रि॒ताय॒ तद्वि॑भावर्या॒प्त्याय॒ परा॑ वहाने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥

पदपाठः

यत् । च॒ । गोषु॑ । दुः॒ऽस्वप्न्य॑म् । यत् । च॒ । अ॒स्मे इति॑ । दु॒हि॒तः॒ । दि॒वः॒ ।
त्रि॒ताय॑ । तत् । वि॒भा॒ऽव॒रि॒ । आ॒प्त्याय॑ । परा॑ । व॒ह॒ । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥

सायणभाष्यम्

हे दिवोदुहितरुषः उषोदेवते यच्च गोषु अस्मदीयासु दुःष्वम्यं अनर्थसूचकं दृष्टं स्वार्थिकोयत् किञ्च यच्च दुःष्वम्यं अस्मेस्मासु दृष्टं गोपीडानिमित्तक- मस्माकं पीडानिमित्तकं च्च यत् दुःष्वमं पश्यामइत्यर्थः । तत्सर्वं हे विभावरि उषोनामैतत् हे व्युच्छनवति देवि आप्त्याय त्रिताय परावह दूरे परिहर ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः