मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४७, ऋक् १५

संहिता

नि॒ष्कं वा॑ घा कृ॒णव॑ते॒ स्रजं॑ वा दुहितर्दिवः ।
त्रि॒ते दु॒ष्ष्वप्न्यं॒ सर्व॑मा॒प्त्ये परि॑ दद्मस्यने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥

पदपाठः

नि॒ष्कम् । वा॒ । घ॒ । कृ॒णव॑ते । स्रज॑म् । वा॒ । दु॒हि॒तः॒ । दि॒वः॒ ।
त्रि॒ते । दुः॒ऽस्वप्न्य॑म् । सर्व॑म् । आ॒प्त्ये । परि॑ । द॒द्म॒सि॒ । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥

सायणभाष्यम्

हे दिवोदुहितरुषो निष्कंवा घ आभरणविशेषं वा कृणवते कुर्वते स्वर्णकाराय यत् दुःष्वम्यं दृष्टं स्वर्णकारेणनिर्माणसमये दृष्टमित्यर्थः । घेतिपूरणः वाशब्दश्चार्थे वा अथवा स्रजं माल्यं कृणवते कुर्वाणेइत्यर्थः तस्मिन्नपि मालाकारे मालोआनिर्माणसमये यत् दुःष्वम्यं दृष्टं तदुभयविषयं स्वमं आप्त्ये अपां पुत्रे त्रिते वर्तमानं परिदद्मसि परिदद्मोवयं त्रिताः परित्यजामेत्यर्थः । अथवा त्रिते मयि यद्दुःष्वम्यं दृष्टं तत्स्वर्णकाराय मालाकारा- यवा परिदद्मसि अस्मत्तोपिनिष्कृष्य तयोरुपरि स्थापयामः ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः