मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४७, ऋक् १६

संहिता

तद॑न्नाय॒ तद॑पसे॒ तं भा॒गमु॑पसे॒दुषे॑ ।
त्रि॒ताय॑ च द्वि॒ताय॒ चोषो॑ दु॒ष्ष्वप्न्यं॑ वहाने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥

पदपाठः

तत्ऽअ॑न्नाय । तत्ऽअ॑पसे । तम् । भा॒गम् । उ॒प॒ऽसे॒दुषे॑ ।
त्रि॒ताय॑ । च॒ । द्वि॒ताय॑ । च॒ । उषः॑ । दुः॒ऽस्वप्न्य॑म् । व॒ह॒ । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥

सायणभाष्यम्

तदन्नाय यदेव जागरावस्थायां भोज्यत्वेन प्रसिद्धं मधुपायसादि स्वप्नेपि तदेवान्नं यस्य सः तादृशाय प्रत्यक्षभोजनवत् स्वप्नेपि भोत्र्क्रे इत्यर्थः । तथा तदपसे यदेवापः कर्मनिन्दितं जाग्रदवस्थायां क्रियते तदेव कर्म स्वप्ने यस्य सतत्कर्मा तादृशाय देवाय तं भागं दुःस्वप्नत्यांशमुपसेदुषे प्राप्नुवते त्रिताय द्वितायच हे उषोदेवि दुःष्वप्न्यं अन्नकर्मविषयं वह अन्यत्र प्रापय स्वप्नेदृष्टं मधुभोजनादिकं जाग्रदवस्थानरूपवत्सुखकरं भवत्वित्यर्थः ॥ १६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०