मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४७, ऋक् १७

संहिता

यथा॑ क॒लां यथा॑ श॒फं यथ॑ ऋ॒णं सं॒नया॑मसि ।
ए॒वा दु॒ष्ष्वप्न्यं॒ सर्व॑मा॒प्त्ये सं न॑यामस्यने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥

पदपाठः

यथा॑ । क॒लाम् । यथा॑ । श॒फम् । यथा॑ । ऋ॒णम् । स॒म्ऽनया॑मसि ।
ए॒व । दुः॒ऽस्वप्न्य॑म् । सर्व॑म् । आ॒प्त्ये । सम् । न॒या॒म॒सि॒ । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥

सायणभाष्यम्

संज्ञापितं पशुं दानार्थं संस्कुर्वन्तो यथा येनप्रकारेण कलां शफमिति सन्दायान्यत्र सन्नयन्ति अथापरो यथा शब्दःपूरणः अथवा यथा कलां हृदया- द्यवयवमवदानार्हं सन्नयन्ति यथाच शफं शफोपलक्षितमवदानार्हं शफास्थ्यादिकं सन्नयामः अपसारयामः ॥ १७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०