मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४८, ऋक् १

संहिता

स्वा॒दोर॑भक्षि॒ वय॑सः सुमे॒धाः स्वा॒ध्यो॑ वरिवो॒वित्त॑रस्य ।
विश्वे॒ यं दे॒वा उ॒त मर्त्या॑सो॒ मधु॑ ब्रु॒वन्तो॑ अ॒भि सं॒चर॑न्ति ॥

पदपाठः

स्वा॒दोः । अ॒भ॒क्षि॒ । वय॑सः । सु॒ऽमे॒धाः । सु॒ऽआ॒ध्यः॑ । व॒रि॒वो॒वित्ऽत॑रस्य ।
विश्वे॑ । यम् । दे॒वाः । उ॒त । मर्त्या॑सः । मधु॑ । ब्रु॒वन्तः॑ । अ॒भि । स॒म्ऽचर॑न्ति ॥

सायणभाष्यम्

अहं प्रगाथः सुमेधाः शोभनप्रज्ञः स्वाध्यः स्वाध्ययनः सुकर्मा वरिवोवित्तरस्य अतिशयेन पूजां लभमानस्य स्वादोः सुष्ठु अदनीयस्य स्वादुभूतस्य वयसोन्नस्य एताः कर्मणिषष्ठ्यः उक्तलक्षणं वयोन्नं सोमाख्यं आभक्षि भक्षयेय । यं यदन्नं विश्वेदेवाः सर्वेपीन्द्रादयः उतापिच मर्त्यासोमर्त्या मनुष्या मधुब्रुवन्तः मनोहरमेतदिति शब्दायन्तोभिसञ्चरन्ति अभिसंगच्छन्ते प्राप्नुवन्ति तदन्नमभक्षीति ॥ १ ॥ अग्नीषोमप्रणयनेन्तश्चेत्येषा । तथाचसूत्रितम्-अन्तश्चप्रागाअदितिर्भवासि श्येनोनयोनिंसदनं धियाकृतमिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११