मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४८, ऋक् ४

संहिता

शं नो॑ भव हृ॒द आ पी॒त इ॑न्दो पि॒तेव॑ सोम सू॒नवे॑ सु॒शेवः॑ ।
सखे॑व॒ सख्य॑ उरुशंस॒ धीर॒ः प्र ण॒ आयु॑र्जी॒वसे॑ सोम तारीः ॥

पदपाठः

शम् । नः॒ । भ॒व॒ । हृ॒दे । आ । पी॒तः । इ॒न्दो॒ इति॑ । पि॒ताऽइ॑व । सो॒म॒ । सू॒नवे॑ । सु॒ऽशेवः॑ ।
सखा॑ऽइव । सख्ये॑ । उ॒रु॒ऽशं॒स॒ । धीरः॑ । प्र । नः॒ । आयुः॑ । जी॒वसे॑ । सो॒म॒ । ता॒रीः॒ ॥

सायणभाष्यम्

हे इन्द्रो सोम अस्माभिः पीतस्त्वं नोस्माकं हृदे हृदयाय शं सुखं आभव । सुखभवने दृष्टान्तद्वयम्-पितेव सूनवे स्वात्मजाय यथा सुखाय भवति । यथा वा सखाऽहितान्निवर्त्य हिते स्थापयिता सखायं स्वसख्ये यथा सुशेवः सु सुखोभवति शेवमिति सुखनाम तद्वत्त्वमपि भव । किञ्च हे उरुशंस बहुभिर्बहुधावा शंसनीय बहुकीर्ते सोम धीरो धीमांस्त्वं नोस्माकं जीवसे जीवनाय आयुरायुष्यं प्रतारीः प्रवर्धय ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११