मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४८, ऋक् ५

संहिता

इ॒मे मा॑ पी॒ता य॒शस॑ उरु॒ष्यवो॒ रथं॒ न गाव॒ः सम॑नाह॒ पर्व॑सु ।
ते मा॑ रक्षन्तु वि॒स्रस॑श्च॒रित्रा॑दु॒त मा॒ स्रामा॑द्यवय॒न्त्विन्द॑वः ॥

पदपाठः

इ॒मे । मा॒ । पी॒ताः । य॒शसः॑ । उ॒रु॒ष्यवः॑ । रथ॑म् । न । गावः॑ । सम् । अ॒ना॒ह॒ । पर्व॑ऽसु ।
ते । मा॒ । र॒क्ष॒न्तु॒ । वि॒ऽस्रसः॑ । च॒रित्रा॑त् । उ॒त । मा॒ । स्रामा॑त् । य॒व॒य॒न्तु॒ । इन्द॑वः ॥

सायणभाष्यम्

इमे पीताः यशसो यशस्कराः उरुष्यवोस्माकं रक्षाकामाः सोमाः गावो गोविकारभूता वध्वः रथंन रथमिव ताः यथा रथं विस्रस्तं पर्वसु समनाह सन्दधते तद्वन्मां पीताः सोमाः पर्वसु संनह्यन्तु । किञ्च ते सोमाः मा मां विस्रसो विस्रस्ताच्चरिताच्चरणादनुष्ठानाद्रक्षन्तु सोमः पीतश्चेत्कर्मह्यविस्रस्तं भवति । उतापिच मा मां स्रामाद्माधेः सकाशादिन्दवः पीता यवयन्तु पृथक्कुर्वन्तु ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११