मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४८, ऋक् ७

संहिता

इ॒षि॒रेण॑ ते॒ मन॑सा सु॒तस्य॑ भक्षी॒महि॒ पित्र्य॑स्येव रा॒यः ।
सोम॑ राज॒न्प्र ण॒ आयूं॑षि तारी॒रहा॑नीव॒ सूर्यो॑ वास॒राणि॑ ॥

पदपाठः

इ॒षि॒रेण॑ । ते॒ । मन॑सा । सु॒तस्य॑ । भ॒क्षी॒महि॑ । पित्र्य॑स्यऽइव । रा॒यः ।
सोम॑ । रा॒ज॒न् । प्र । नः॒ । आयूं॑षि । ता॒रीः॒ । अहा॑निऽइव । सूर्यः॑ । वा॒स॒राणि॑ ॥

सायणभाष्यम्

इषिरेण इच्छावता मनसा सुतस्य सुतमभिषुतं ते त्वां भक्षीमहि पित्र्यस्य पितृसंबन्धिनो रायो धनस्येव धनमिव पित्र्यं धनं यथैषणेन मनसोपभु- च्चते तद्वत् भक्षीमहि । हे सोमराजन् स्वामिन् नोस्माकमायूंषि प्रतारीः प्रवर्धय वासराणि जगद्वासकानि अहानि सूर्यइव । अत्रै षणेन वैषणेन वार्ष- णेन वेत्यादिनिरुक्तं ज्ञातव्यं ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२