मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४८, ऋक् ९

संहिता

त्वं हि न॑स्त॒न्व॑ः सोम गो॒पा गात्रे॑गात्रे निष॒सत्था॑ नृ॒चक्षा॑ः ।
यत्ते॑ व॒यं प्र॑मि॒नाम॑ व्र॒तानि॒ स नो॑ मृळ सुष॒खा दे॑व॒ वस्य॑ः ॥

पदपाठः

त्वम् । हि । नः॒ । त॒न्वः॑ । सो॒म॒ । गो॒पाः । गात्रे॑ऽगात्रे । नि॒ऽस॒सत्थ॑ । नृ॒ऽचक्षाः॑ ।
यत् । ते॒ । व॒यम् । प्र॒ऽमि॒नाम॑ । व्र॒तानि॑ । सः । नः॒ । मृ॒ळ॒ । सु॒ऽस॒खा । दे॒व॒ । वस्यः॑ ॥

सायणभाष्यम्

हे सोम देव त्वं नोस्माकं तन्वस्तनोरंगस्य गोपाहि रक्षिताखलु अतो गात्रेगात्रे सर्वेष्वंगेषु नृचक्षाः नृणां कर्मनेतॄणां द्रष्टा त्वं निषसत्थ निषीदसि । यद्यपि ते तव व्रतानि कर्माणि वयं प्रमिनाम हिंस्मः तथापि हे देव सत्वं वस्यः श्रेष्ठान्नोस्मान्सुषखा शोभनसखासन् मृळ सुखय ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२