मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४८, ऋक् १२

संहिता

यो न॒ इन्दु॑ः पितरो हृ॒त्सु पी॒तोऽम॑र्त्यो॒ मर्त्याँ॑ आवि॒वेश॑ ।
तस्मै॒ सोमा॑य ह॒विषा॑ विधेम मृळी॒के अ॑स्य सुम॒तौ स्या॑म ॥

पदपाठः

यः । नः॒ । इन्दुः॑ । पि॒त॒रः॒ । हृ॒त्ऽसु । पी॒तः । अम॑र्त्यः । मर्त्या॑न् । आ॒ऽवि॒वेश॑ ।
तस्मै॑ । सोमा॑य । ह॒विषा॑ । वि॒धे॒म॒ । मृ॒ळी॒के । अ॒स्य॒ । सु॒ऽम॒तौ । स्या॒म॒ ॥

सायणभाष्यम्

हे पितरो यइन्दुः हृत्सुपीतःसन् अमर्त्योमृतिरहितः सन्नाविवेश मर्त्यान्नोस्मान् तस्मै सोमाय हविषाविधेम परिचरेम । अस्य सोमस्य मृळीके सुखे सुमतौ चानुग्रहबुद्धौच स्याम भवेम ॥ १२ ॥ महापितृयज्ञे सोमायपितृमतेपुरोडाशमित्यत्र त्वंसोममितियाज्या सूत्रितञ्च-त्वंसोमपितृभिःसंविदानो बर्हिषदःपितरऊत्यर्वागिति । तृतीयसवने सौम्यस्यचरोरपीयमेवयाज्या । त्वंसोमपितृभिः संविदानइतिसौम्यस्येतिहिसूत्रितम् ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३