मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४८, ऋक् १३

संहिता

त्वं सो॑म पि॒तृभि॑ः संविदा॒नोऽनु॒ द्यावा॑पृथि॒वी आ त॑तन्थ ।
तस्मै॑ त इन्दो ह॒विषा॑ विधेम व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ॥

पदपाठः

त्वम् । सो॒म॒ । पि॒तृऽभिः॑ । स॒म्ऽवि॒दा॒नः । अनु॑ । द्यावा॑पृथि॒वी इति॑ । आ । त॒त॒न्थ॒ ।
तस्मै॑ । ते॒ । इ॒न्दो॒ इति॑ । ह॒विषा॑ । वि॒धे॒म॒ । व॒यम् । स्या॒म॒ । पत॑यः । र॒यी॒णाम् ॥

सायणभाष्यम्

हे सोम त्वं पितृभिः सह संविदानः संगच्छमानो द्यावापृथिवी द्यावापृथिव्यौ अन्वाततन्थ क्रमेण विस्तारयसि । हे इन्द्रो सोम तस्मै ते तुभ्यं हवि- षा विधेम परिचरेम वयं रयीणां धनानां पतयः स्याम भवेम ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३