मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४८, ऋक् १४

संहिता

त्राता॑रो देवा॒ अधि॑ वोचता नो॒ मा नो॑ नि॒द्रा ई॑शत॒ मोत जल्पि॑ः ।
व॒यं सोम॑स्य वि॒श्वह॑ प्रि॒यासः॑ सु॒वीरा॑सो वि॒दथ॒मा व॑देम ॥

पदपाठः

त्राता॑रः । दे॒वाः॒ । अधि॑ । वो॒च॒त॒ । नः॒ । मा । नः॒ । नि॒ऽद्रा । ई॒श॒त॒ । मा । उ॒त । जल्पिः॑ ।
व॒यम् । सोम॑स्य । वि॒श्वह॑ । प्रि॒यासः॑ । सु॒ऽवीरा॑सः । वि॒दथ॑म् । आ । व॒दे॒म॒ ॥

सायणभाष्यम्

हे त्रातारो रक्षितारो हे देवाः नोस्मानधिवोचत अधिवचनं कुरुत । किञ्च नोस्मान्निद्रा स्वप्नाः मेशत ईश्वरामाभूवन् बाधितुम् । उतापिच जल्पिः निन्दकोस्मान्मानिन्दतु । वयं सोमस्य प्रियासः प्रियाः स्याम । विश्वह सर्वेष्वहःसु सर्वदेत्यर्थः सुवीरासः शोभनपुत्राः सन्तोविदथं स्तोत्रमावदेम आभिमुख्येन वदेम । अथवा सुपुत्राविदथं गृहमावदेम । आवदनं पुत्रपौत्राणां धनेनोपच्छन्दनम् ॥ १४ ॥ त्वंनःसोमविश्वतइति सौम्येपशौ हविषोनुवाक्या । सूत्रितञ्च-त्वंनःसोमविश्वतोवयोधायातेधामानिदिवियापृथिव्यामिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३