मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४८, ऋक् १५

संहिता

त्वं नः॑ सोम वि॒श्वतो॑ वयो॒धास्त्वं स्व॒र्विदा वि॑शा नृ॒चक्षा॑ः ।
त्वं न॑ इन्द ऊ॒तिभि॑ः स॒जोषा॑ः पा॒हि प॒श्चाता॑दु॒त वा॑ पु॒रस्ता॑त् ॥

पदपाठः

त्वम् । नः॒ । सो॒म॒ । वि॒श्वतः॑ । व॒यः॒ऽधाः । त्वम् । स्वः॒ऽवित् । आ । वि॒श॒ । नृ॒ऽचक्षाः॑ ।
त्वम् । नः॒ । इ॒न्दो॒ इति॑ । ऊ॒तिऽभिः॑ । स॒ऽजोषाः॑ । पा॒हि । प॒श्चाता॑त् । उ॒त । वा॒ । पु॒रस्ता॑त् ॥

सायणभाष्यम्

हे सोम त्वं नोस्माकं विश्वतः सर्वाभ्योदिग्भ्यो वयोधा अन्नदाता तथा त्वं स्वर्वित् स्वर्गलंभकः नृचक्षाः सर्वमनुष्यद्रष्टा त्वं आविश । हे इन्द्रो त्वं सजोषाः सहप्रीयमाणः सन् ऊतिभिः सह अथवोतयोगन्तारोमरुतः तैः सहितः सन्पश्चातात् पश्चात् उतवा पुरस्ताच्च पाहि ॥ १५ ॥

सप्तमेनुवाके दशसूक्तानि तत्राग्नआयाहीति विंशत्यृचं प्रथमं सूक्तं प्रगाथपुत्रस्य भर्गस्यार्षं आग्नेयं प्रथमातृतीयाद्ययुजोबृहत्यः द्वितीयाचतुर्थ्यादि युजः सतोबृहत्यः । तथाचानुक्रान्तम्अग्नआ विंशतिर्भर्गः प्रागाथआग्नेयं प्रागाथंत्विति । प्रातरनुवाके आग्नेयेक्रतौ बार्हतेछन्दसि आश्विनशस्त्रेचेदं सूक्तम् । तथाचसूत्रितम्-अयमग्निरग्नआयाहीति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३