मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ५८, ऋक् २

संहिता

एक॑ ए॒वाग्निर्ब॑हु॒धा समि॑द्ध॒ एक॒ः सूर्यो॒ विश्व॒मनु॒ प्रभू॑तः ।
एकै॒वोषाः सर्व॑मि॒दं वि भा॒त्येकं॒ वा इ॒दं वि ब॑भूव॒ सर्व॑म् ॥

पदपाठः

एकः॑ । ए॒व । अ॒ग्निः । ब॒हु॒धा । सम्ऽइ॑द्धः । एकः॑ । सूर्यः॑ । विश्व॑म् । अनु॑ । प्रऽभू॑तः ।
एका॑ । ए॒व । उ॒षाः । सर्व॑म् । इ॒दम् । वि । भा॒ति॒ । एक॑म् । वै । इ॒दम् । वि । ब॒भू॒व॒ । सर्व॑म् ॥

सायणभाष्यम्

Sayana bhashya empty

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९