मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६०, ऋक् ५

संहिता

त्वमित्स॒प्रथा॑ अ॒स्यग्ने॑ त्रातरृ॒तस्क॒विः ।
त्वां विप्रा॑सः समिधान दीदिव॒ आ वि॑वासन्ति वे॒धसः॑ ॥

पदपाठः

त्वम् । इत् । स॒ऽप्रथाः॑ । अ॒सि॒ । अग्ने॑ । त्रा॒तः॒ । ऋ॒तः । क॒विः ।
त्वाम् । विप्रा॑सः । स॒म्ऽइ॒धा॒न॒ । दी॒दि॒ऽवः॒ । आ । वि॒वा॒स॒न्ति॒ । वे॒धसः॑ ॥

सायणभाष्यम्

हे अग्ने त्रातः रक्षक ऋतः सत्यभूतः कविः क्रान्तप्रज्ञस्त्वमित् त्वमेव सप्रथाः सर्वतः पृथुरसि भवसि । हे समिधान समिध्यमान हे दीदिवः दीप्तत्वां विप्रासो विप्राः मेधाविनो वेधसो विधातारः स्तोतारो विवासन्ति परिचरन्ति ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२