मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६०, ऋक् ६

संहिता

शोचा॑ शोचिष्ठ दीदि॒हि वि॒शे मयो॒ रास्व॑ स्तो॒त्रे म॒हाँ अ॑सि ।
दे॒वानां॒ शर्म॒न्मम॑ सन्तु सू॒रयः॑ शत्रू॒षाहः॑ स्व॒ग्नयः॑ ॥

पदपाठः

शोच॑ । शो॒चि॒ष्ठ॒ । दी॒दि॒हि । वि॒शे । मयः॑ । रास्व॑ । स्तो॒त्रे । म॒हान् । अ॒सि॒ ।
दे॒वाना॑म् । शर्म॑न् । मम॑ । स॒न्तु॒ । सू॒रयः॑ । श॒त्रु॒ऽसहः॑ । सु॒ऽअ॒ग्नयः॑ ॥

सायणभाष्यम्

हे शोचिष्ठ अतिशयेन शोचयितरग्ने शोच दीप्यस्व । दीदिहि दीपयास्मान । विशे प्रजायै स्तोत्रे मयः सुखं रास्व देहि । त्वं महानसि त्वं देवानां संबन्धिनि शर्मन् शर्मणि सुखे मम सूरयः स्तोतारो मेधाविनोस्माकं पुत्रादयोवा सन्तु भवन्तु । शत्रूषाहः शत्रूणामभिभवितारः स्वग्नयः शोभना- ग्नयश्च सन्तु ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३