मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६०, ऋक् ९

संहिता

पा॒हि नो॑ अग्न॒ एक॑या पा॒ह्यु१॒॑त द्वि॒तीय॑या ।
पा॒हि गी॒र्भिस्ति॒सृभि॑रूर्जां पते पा॒हि च॑त॒सृभि॑र्वसो ॥

पदपाठः

पा॒हि । नः॒ । अ॒ग्ने॒ । एक॑या । पा॒हि । उ॒त । द्वि॒तीय॑या ।
पा॒हि । गीः॒ऽभिः । ति॒सृऽभिः॑ । ऊ॒र्जा॒म् । प॒ते॒ । पा॒हि । च॒त॒सृऽभिः॑ । व॒सो॒ इति॑ ॥

सायणभाष्यम्

हे अग्ने नोस्मानेकया ऋचा गिरा पाहि रक्ष । उतापिच द्वितीयया ऋचा पाहि पालय पाहि तिसृभिर्गीर्भिरूर्जामन्नानां बलानां वा पते स्वामिन् । तथा पाहि चतसृभिः गीर्भिः हे वसोवासकाग्ने ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३