मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६०, ऋक् १०

संहिता

पा॒हि विश्व॑स्माद्र॒क्षसो॒ अरा॑व्ण॒ः प्र स्म॒ वाजे॑षु नोऽव ।
त्वामिद्धि नेदि॑ष्ठं दे॒वता॑तय आ॒पिं नक्षा॑महे वृ॒धे ॥

पदपाठः

पा॒हि । विश्व॑स्मात् । र॒क्षसः॑ । अरा॑व्णः । प्र । स्म॒ । वाजे॑षु । नः॒ । अ॒व॒ ।
त्वाम् । इत् । हि । नेदि॑ष्ठम् । दे॒वऽता॑तये । आ॒पिम् । नक्षा॑महे । वृ॒धे ॥

सायणभाष्यम्

हे अग्ने विश्वस्मात्सर्वस्माद्रक्षसः अराव्णोदातुः सकाशात्पाहि रक्षास्मान् वाजेषु संग्रमेषु नोस्मान्प्राब प्रकर्षेण रक्ष । स्मेति पूरणः । हियस्मान्नेदिष्ठ- मासन्नं आपिं बन्धुभूतं त्वामित् त्वामेव देवतातये यज्ञाय यज्ञसिध्यर्थं वृधे वर्धनाय नक्षामहे व्याप्नुमः । नक्षतिर्व्याप्तिकर्मा ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३