आ नो॑ अग्ने वयो॒वृधं॑ र॒यिं पा॑वक॒ शंस्य॑म् ।
रास्वा॑ च न उपमाते पुरु॒स्पृहं॒ सुनी॑ती॒ स्वय॑शस्तरम् ॥
आ । नः॒ । अ॒ग्ने॒ । व॒यः॒ऽवृध॑म् । र॒यिम् । पा॒व॒क॒ । शंस्य॑म् ।
रास्व॑ । च॒ । नः॒ । उ॒प॒ऽमा॒ते॒ । पु॒रु॒ऽस्पृह॑म् । सुऽनी॑ती । स्वय॑शःऽतरम् ॥
हे अग्ने पावक शोधक वयोवृधमन्नस्य वर्धकं शंस्यं शंसनीयं रयिं धनं नोस्मभ्यमाहरेतिशेषः । आहृत्य च हे उपमाते उपास्मत्समीपे माति नो धनमित्युपमातिः । हे तादृशाग्ने नोस्मभ्यं सुनीती सुनीत्या शोभननयनेन पुरुस्पृहं बहुभिः स्पृहणीयं स्वयशस्तरं अत्यन्तं स्वभूतकीर्तिधनं रास्व च देहि ॥ ११ ॥