मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६०, ऋक् १२

संहिता

येन॒ वंसा॑म॒ पृत॑नासु॒ शर्ध॑त॒स्तर॑न्तो अ॒र्य आ॒दिशः॑ ।
स त्वं नो॑ वर्ध॒ प्रय॑सा शचीवसो॒ जिन्वा॒ धियो॑ वसु॒विदः॑ ॥

पदपाठः

येन॑ । वंसा॑म । पृत॑नासु । शर्ध॑तः । तर॑न्तः । अ॒र्यः । आ॒ऽदिशः॑ ।
सः । त्वम् । नः॒ । व॒र्ध॒ । प्रय॑सा । श॒ची॒व॒सो॒ इति॑ शचीऽवसो । जिन्व॑ । धियः॑ । व॒सु॒ऽविदः॑ ॥

सायणभाष्यम्

येन धनेन पृतनासु संग्रामेषु शर्धतः वेगं कुर्वतः अर्योरीन् शत्रून् आदिशः आदेष्टॄन् शस्त्रप्रक्षेप्तॄन् तरन्तो वंसाम हिंसाम तद्धनं देहि । हे शचीवसो प्रज्ञया वासयितः कर्मधनवा स प्रसिद्धस्त्वंनोस्मान्वर्ध वर्धय प्रीणय प्रयसान्नेन । त्वं वा वर्धास्मदीयेन प्रयसा । हविषावसुविदो वसूनां लंभकानि धियः कर्माण्यस्मदीयानि जिन्व प्रीणय ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३४