मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६०, ऋक् १३

संहिता

शिशा॑नो वृष॒भो य॑था॒ग्निः शृङ्गे॒ दवि॑ध्वत् ।
ति॒ग्मा अ॑स्य॒ हन॑वो॒ न प्र॑ति॒धृषे॑ सु॒जम्भ॒ः सह॑सो य॒हुः ॥

पदपाठः

शिशा॑नः । वृ॒ष॒भः । य॒था॒ । अ॒ग्निः । शृङ्गे॒ इति॑ । दवि॑ध्वत् ।
ति॒ग्माः । अ॒स्य॒ । हन॑वः । न । प्र॒ति॒ऽधृषे॑ । सु॒ऽजम्भः॑ । सह॑सः । य॒हुः ॥

सायणभाष्यम्

अयमग्निः शृंगे शिशानः तीक्ष्णीकुर्वन् वृषभोयथा दविध्वत् कंपयति शिरः एवं शृङ्गस्थानीया ज्वालाः शिशानस्तीक्ष्णीकुर्वन् दविध्वत् कम्पयति शिरः । अस्याग्नेर्हनवोन हनवइव हनुस्थानीयाज्वालाः तिग्माः तीक्ष्णा नप्रतिधृषे प्रतिधर्षितुमशक्याः । योग्निः सुजम्भः सुदंष्ट्रः सहसोयहुः सहस- स्पुत्रः अस्य हनवइत्यर्थः ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३४