मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६०, ऋक् १४

संहिता

न॒हि ते॑ अग्ने वृषभ प्रति॒धृषे॒ जम्भा॑सो॒ यद्वि॒तिष्ठ॑से ।
स त्वं नो॑ होत॒ः सुहु॑तं ह॒विष्कृ॑धि॒ वंस्वा॑ नो॒ वार्या॑ पु॒रु ॥

पदपाठः

न॒हि । ते॒ । अ॒ग्ने॒ । वृ॒ष॒भ॒ । प्र॒ति॒ऽधृषे॑ । जम्भा॑सः । यत् । वि॒ऽतिष्ठ॑से ।
सः । त्वम् । नः॒ । हो॒त॒रिति॑ । सुऽहु॑तम् । ह॒विः । कृ॒धि॒ । वंस्व॑ । नः॒ । वार्या॑ । पु॒रु ॥

सायणभाष्यम्

हे वृषभ वर्षक हे अग्ने ते तव जंभासो जंभा दन्तस्थानीयाज्वालाः नहि प्रतिधृषे प्रतिधर्षितुं न शक्याः यद्यस्माद्वितिष्ठसे विविधं गच्छसि प्रवर्धस- इत्यर्थः । हे होतर्होमनिष्पादक सत्वं हविरस्मद्दत्तं सुहुतं कृधि कुरु नोस्मभ्यं वार्या वरणीयानि पुरु बहूनि वंस्व देहि ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३४