मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६०, ऋक् १५

संहिता

शेषे॒ वने॑षु मा॒त्रोः सं त्वा॒ मर्ता॑स इन्धते ।
अत॑न्द्रो ह॒व्या व॑हसि हवि॒ष्कृत॒ आदिद्दे॒वेषु॑ राजसि ॥

पदपाठः

शेषे॑ । वने॑षु । मा॒त्रोः । सम् । त्वा॒ । मर्ता॑सः । इ॒न्ध॒ते॒ ।
अत॑न्द्रः । ह॒व्या । व॒ह॒सि॒ । ह॒विः॒ऽकृतः॑ । आत् । इत् । दे॒वेषु॑ । रा॒ज॒सि॒ ॥

सायणभाष्यम्

हे अग्ने वनेषु वर्तमानयोर्मात्रोररण्योः शेषे स्वपिषि वर्तसे । त्वा त्वां तथाभूतं मर्तासोमनुष्याः अध्वर्य्वादयोमथनेनोत्पाद्य समिन्धते पश्चात्प्रवृद्धः त्वमतन्द्रोऽनलसः सन् हविष्कृतोयजमानस्य हव्या हवींषि वहसि देवान् प्रति । आदिदनन्तरमेव देवेषु मध्ये राजसि दीप्यसे ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३४