मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६०, ऋक् १६

संहिता

स॒प्त होता॑र॒स्तमिदी॑ळते॒ त्वाग्ने॑ सु॒त्यज॒मह्र॑यम् ।
भि॒नत्स्यद्रिं॒ तप॑सा॒ वि शो॒चिषा॒ प्राग्ने॑ तिष्ठ॒ जनाँ॒ अति॑ ॥

पदपाठः

स॒प्त । होता॑रः । तम् । इत् । ई॒ळ॒ते॒ । त्वा॒ । अग्ने॑ । सु॒ऽत्यज॑म् । अह्र॑यम् ।
भि॒नत्सि । अद्रि॑म् । तप॑सा । वि । शो॒चिषा॑ । प्र । अ॒ग्ने॒ । ति॒ष्ठ॒ । जना॑न् । अति॑ ॥

सायणभाष्यम्

हे अग्ने तमित् तमेव त्वा त्वां सप्तहोतारो सप्तहोत्रकाः ईळते स्तुवन्ति । कीदृशंत्वां सुत्यजं सुत्यागं अभिमतप्रदमित्यर्थः अह्रयमक्षीणं प्रवृद्धम् । किञ्च अद्रिं मेघं तपसा तापकेन शोचिषा तेजसा तपसा शोचिषा चेति वा योज्यं विभिनत्सि । हे अग्ने जनानस्मानति अतीत्यप्रतिष्ठ प्रगच्छ हविरादाय देवान्प्रति अथवा अस्मद्विरोधिजनानतिक्रम्य प्रतिष्ठ ॥ १६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३५