मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६०, ऋक् १८

संहिता

केते॑न॒ शर्म॑न्त्सचते सुषा॒मण्यग्ने॒ तुभ्यं॑ चिकि॒त्वना॑ ।
इ॒ष॒ण्यया॑ नः पुरु॒रूप॒मा भ॑र॒ वाजं॒ नेदि॑ष्ठमू॒तये॑ ॥

पदपाठः

केते॑न । शर्म॑न् । स॒च॒ते॒ । सु॒ऽसा॒मनि॑ । अग्ने॑ । तुभ्य॑म् । चि॒कि॒त्वना॑ ।
इ॒ष॒ण्यया॑ । नः॒ । पु॒रु॒ऽरूप॑म् । आ । भ॒र॒ । वाज॑म् । नेदि॑ष्ठम् । ऊ॒तये॑ ॥

सायणभाष्यम्

हे अग्ने तुभ्यं चिकित्वना चिकितुषा जनेन होत्रादिना सह यजमानः केतेन प्रज्ञापकेन स्तोत्रेण यजतइतिशेषः । कुत्रेति तदुच्यते-सुषामणि शोभ- नरथन्तरादिसामोपेते शर्मन् शर्मणि सुखसाधने यज्ञे । अतः हे अग्ने इषण्यया इच्छया स्वीयया नोस्मभ्यं पुरुरूपं नानारूपं नेदिष्ठं अन्तिके सर्वदा वर्तमानं वाजमन्नं ऊतये रक्षणायाभराहर ॥ १८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३५