मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६०, ऋक् २०

संहिता

मा नो॒ रक्ष॒ आ वे॑शीदाघृणीवसो॒ मा या॒तुर्या॑तु॒माव॑ताम् ।
प॒रो॒ग॒व्यू॒त्यनि॑रा॒मप॒ क्षुध॒मग्ने॒ सेध॑ रक्ष॒स्विनः॑ ॥

पदपाठः

मा । नः॒ । रक्षः॑ । आ । वे॒शी॒त् । आ॒घृ॒णि॒व॒सो॒ इत्या॑घृणिऽवसो । मा । या॒तुः । या॒तु॒ऽमाव॑ताम् ।
प॒रः॒ऽग॒व्यू॒ति । अनि॑राम् । अप॑ । क्षुध॑म् । अग्ने॑ । सेध॑ । र॒क्ष॒स्विनः॑ ॥

सायणभाष्यम्

हे आघृणीवसो दीप्तधनाग्ने नोस्मान्रक्षोराक्षसादिः । रक्षोरक्षितव्यमस्मादितियास्कः । मा आवेशीत् सर्वतो न प्रविशतु । तथा यातुमावतां यातुर्या- तना पीडा तद्वतां यातुधानानां यातुः पीडामावेशीत् । हे अग्ने अनिरां इरान्नं अन्नाभावं दारिद्मं क्षुधं क्षपयितारं रक्षस्विनो बलवन्ति रक्षांसिच परोगव्यूति क्रोशद्वयाद्देशात्परस्तात् एतदुपलक्षणं अत्यन्तं दूरदेशे अपसेध परिहर अनिराक्षुत् बाह्यानि रक्षांसिच नपीडयन्त्विति ॥ २० ॥

उभयंशृणवदित्यष्टादशर्चं द्वितीयं सूक्तं प्रागाथस्य भर्गस्यार्षम् । अत्रानुक्रमणिका-उभयंद्मूनेति । पूर्वसूक्ते प्रागाथंत्वित्युक्तत्वादिदमपि प्रागाथम् । अत्रायुजोबृहत्यः युजःसतोबृहत्यः अनुक्तत्वादिन्द्रोदेवता । महाव्रते निष्केवल्ये बार्हततृचाशीतावेतत्सूक्तं सप्तम्यष्टमीवर्जं तथैवपञ्चमारण्यके सूत्रितं शौनकेन-उभयंशृणवच्चनइति सप्तमींचाष्टमीं चोद्धरतीति । चातुर्विंशिकेहनि निष्केवल्ये उभयमिति बृहत्सामप्रगाथः । तथाचसूत्रितम्- उभयंशृणवच्चनइति । चातुर्विंशिकेहनि माध्यन्दिनेसवनेच्छावाकस्यायमेव स्तोत्रियःप्रगाथः । तथाचसूत्रितं-उभयंशृणवच्चनआवृषस्वपुरूवसोइति । एवमन्यत्रापि यस्मिन्नहनि पृष्ठस्तोत्रे बृहत्सामक्रियते तस्मिन्नहनि निष्केवल्येयंप्रगाथः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३५